शुक्ल यजुर्वेदीय-प्रातः-मध्याह्न-सायं-सन्ध्या वंदन प्रयोग

॥ अथ शुक्लयजुर्वेदीयप्रातःसन्ध्या प्रयोगः ॥

॥ भस्मधारणम् ॥

ॐ अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वꣳ हवाऽ इदम भस्म मनऽ एतानि चक्षूꣳषि भस्मानि ॥ 

॥ गायत्रि मंत्र्॥

ॐ भुर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ।  धियोयोनः प्प्रचोदयत् ।।

॥ विनियोगः ॥

ॐ त्र्यम्बकमित्यस्य वसिष्ठ ऋषिः रुद्रो देवता अनुष्ठुब्छन्दः भस्माभिमन्त्रणे विनियोगः ॥

|| महा मृत्युंजय मंत्र्: ||

ॐ त्र्ययम्बकँय्यजामहेसुगन्धिम्पुष्ट्टिवर्द्धनम् । उर्व्वारुकमिव बन्धनान्न्मृत्योर्म्मुक्षीयमामृतात् ।।

॥ विनियोगः ॥

ॐ त्र्यायुषमित्यस्य नारायण ऋषिः रुद्रो देवता उषिणक्छन्दः भस्मधारणे विनियोगः ॥

॥ जमदग्नि मंत्र् ॥

ॐ त्र्यायुषञ्जमदग्ग्नेः कश्श्यपस्यत्र्यायुषम् । यद्देवेषुत्र्यायुषन्तन्नोऽ अस्तुत्र्यायुषम् ।।

॥ आचमनम् ॥

ॐ केशवाय नमः स्वाहा ।ॐ नारायणाय नमः स्वाहा ।ॐ माधवाय नमः स्वाहा ।ॐ गोविन्दाय नमः इति हस्तं प्रक्षाल्यम् ।

॥ अथ देवतानमस्कारः ॥

ॐ विष्णवे नमः।ॐ मधुसूदनाय नमः ।ॐ त्रिविक्रमाय नमः ।ॐ वामनाय नमः ।ॐ श्रीधराय नमः।ॐ ऋषिकेशाय नमः ।ॐ पद्मनाभाय नमः ।ॐ दमोदकराय नमः ।ॐ सङ्कर्षणाय नमः ।ॐ वासुदेवाय नमः।ॐ प्रद्युम्नाय नमः।ॐ अनिरुद्धाय नमः ।ॐ पुरुषोत्तमाय नमः ।ॐ अधोक्षजाय नमः।ॐ नृसिंहाय नमः ।ॐ अच्युताय नमः।ॐ जनार्दनाय नमः।ॐ उपेन्द्राय नमः ।ॐ श्रीहरये नमः।ॐ श्रीकृष्णाय नमः । 

॥ विनियोगः ॥

ॐ प्रणवस्य परब्रह्म ऋषिः परमात्मा देवता दैवी गायत्री छन्दः प्राणायामे विनियोगः ॥

प्राणायामः :- ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम्

ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः प्प्रचोदयत् ।

ॐ आपोज्योतीरसोऽमृतं ब्रह्म भूर्भुवःस्वरोम् ॥

एवं पूरकः कुम्भकः रेचकः इति क्रमेण त्रिवारं पठेत् ॥

॥ विनियोगः

ॐ मनस्तोक इति मन्त्रस्य कुत्स ऋषिः जगती छन्दः एको रुद्रो देवता शिखाबन्धने विनियोगः ॥

॥ शिखाबन्धन मंत्र

अब ॐ के साथ गायत्री मंत्र या इस –
चिद्रूपिणि महामाये! दिव्यतेजःसमन्विते। तिष्ठ देवि! शिखामध्ये तेजोवृद्धिं कुरुष्व मे॥
मंत्र से शिखा बाँध ले, यदि शिखा पहले से बँधी हो तो उसका स्पर्श कर ले। ईशान दिशा की ओर मुख करके आचमन करे।

॥अङ्गन्यासः ॥

ॐ विष्णुर्विष्णुः वाक् वाक् प्राणः प्राणः चक्षुः चक्षुः श्रोत्रं श्रोत्रं नाभिः हृदयं कण्ठेः मुखं शिरः शिखा बाहुभ्यांयशोबलम् ॥

॥ मार्जनम् ॥

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

ॐ पवित्रेस्थोव्वैष्णव्यौसवितुर्वः प्रसवऽ उत्त्पुनाम्म्यच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः तस्यते पवित्रपते पवित्र पूतस्य यत्त्कामः पुनेतच्छकेयम् 

॥ सङ्कल्पः ॥

ॐ अत्राद्य महामाङ्गल्य फलप्रदमासोत्तमेमासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं ब्रह्मवाप्तये प्रातःसन्ध्योपासनमहं करिष्ये ॥

॥ भूमि प्रार्थना विनियोगः ॥

ॐ पृथ्वीति मंत्रस्य मेरूपृष्ट ऋषिः, सुतलं छन्दः, कूर्मो देवता,आसनपवित्र करने विनियोगः ॥

॥ आसन शुद्धिः मंत्र् ॥

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।।

ॐ कूर्माय नमः ।      ॐ शेषाय नमः ।      ॐ अनन्ताय नमः ।

॥ भूतशुद्धिः ॥

ॐ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ।। अपक्रमन्तु भूतानि पिशाचाः सर्वतोदिशम् । सर्वेषामविरोधेन  सन्ध्याकर्म समारम्भे ।।

।। मार्जनम् ।।

 ॐ भुः पुनातु  (शिरसि) ।    ॐ भुवः पुनातु (नेत्रयोः) ।    ॐ स्वः पुनातु (कण्ठे) ।   ॐ महः पुनातु (हृदये) ।           

ॐ जनः पुनातु (नाभ्याम्) ।   ॐ तपः पुनातु (पादयोः) ।  ॐ सत्यं पुनातु (पुनः शिरसि) ।

ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः प्प्रचोदयत् ॥ (सर्वाङ्गं पुनातु)

॥ करन्यासः ॥

ॐ अङ्गुष्ठाग्रे तु गोविन्दं ।    तर्जन्यां तु महीधरम् ।  मध्यमायां ऋषिकेशम् ।    मनामिक्यां त्रिविक्रमम् ॥ 
    कनिष्ठिक्यान्न्यसेद्विष्णुं  ।    करमध्ये त् माधवम् ।      करपृष्ठे हरिं विद्यन्  ।        मणिबन्धे जनार्दनम् ॥

॥ गायत्रीषडङ्गन्यासाः ॥

ॐ भुः हृदयाय नमः । ॐ भुवः शिरसे स्वाहा । ॐ स्वः शिखायै वषट् । ॐ तत्सवितुर्व्वरेण्ण्यं कवचाय हुम् ।ॐ भर्ग्गो देवस्य धीमहि नेत्रत्रयाय वौषट्। ॐ धियोयोनः प्प्रचोदयत् अस्त्राय फट् ।

॥ प्रणवन्यासाः ॥

ॐ अकारम् नभौ । ॐ उकारम् हृदये । ॐ मकारम् मूर्ध्नि । ॐ भुः पादयोः । ॐ भुवः जान्वोः । ॐ स्वः ऊर्वोः । ॐ महः जठरे । ॐ जनः कण्ठे । ॐ तपः मुखे । ॐ सत्यम् शिरसि ।

ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ॥ धियोयोनः प्प्रचोदयत् ॥ (सर्वाङ्गे) 

॥ गायत्र्यावाहनम् ॥

ॐ गायत्रीं त्र्यक्षरां बालांसाक्षसूत्रकमण्डलुम् । रक्तवस्त्रां चतुर्हस्तां हंसवाहन्संस्थिताम् । ब्रह्माणीं ब्रह्मदैवत्यां ब्रह्मलोकानिवासिनीम् ।आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात् । आगच्छ वरदे देवित्र्यक्षरेब्रह्मवादिनि । गायत्रि छन्दसां मातर्ब्रह्मयोनि नमोऽस्तु ते ॥

॥ अम्बुप्राशनम्  विनियोगः ॥

ॐ सूर्यश्चमेत्यस्य नारायणः ऋषिः सूर्यो देवता अनुष्टुब्छ्न्दः अम्बुप्राशने विनियोगः ।।

॥ आचमनम् ॥

ॐ सूर्यश्चमा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यद्रात्र्या पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना रात्रिस्तदवलुम्पतु यत्किञ्चिद्दुरितं मयि इदमहं माममृतयोनौ सूर्य्ये ज्योतिषि जुहोमि स्वाहा ।।

॥ मार्जनम्  विनियोगः ॥

ॐ आपो हिष्ठयादित्र्यृचस्य सिन्धुद्विप ऋषिर्गायत्रीछ्न्दः आपोदेवता मार्जने विनियोगः ॥

इसके बाद मार्जन का निम्नलिखित विनियोग पढकर बायें हाथ में जल लेकर कुशों से या दाहिने हाथकी तीन अँगुलियों से तक मन्त्रों बोलकर सिर पर छिरके ।८ वें मन्त्र से पृथ्वी पर तथा ९ वें सें फिर सिरपर जल छिड़के

{१}ॐ आपोहिष्ठ्ठामयो भुव  {२} ॐस्तानऽ ऊर्ज्जेदधातन । {३} ॐमहेरणाय चक्षसे   {४} ॐयो वः शिव तमोरस:  {५} ॐ तस्य भाजयतेह नः ।{६}ॐ उशतीरिव मातरः  {७} ॐ तस्मा अरं गमाम  वः  {८} ॐ यस्य क्षयाय जिन्न्वथ  {९} ॐ आपो जनयथाचनः ।।

॥ अघमर्षणम् विनियोगः॥

ॐ द्रुपादिवेत्यस्य कोकिलराजपुत्र ऋषिः अनुष्ठुब्छन्दः आपो देवता अघमर्षणे विनियोगः॥

॥ आचमनम्  मंत्र् 

ॐ द्रुपदादिवमुमुचानः स्विन्नःस्नातोमलादिव । पूतम्पवित्रेणेवाज्ज्यमापः शुन्धन्तुमैनसः ।।

(अनेन  मंत्रेण पापं ध्यात्वा तज्जलं वामतः क्षिपेत्)

॥ अर्घ्यम् ॥

ॐ भुर्भुवःस्वः ॐ तत्सवितुर्व्वरेण्ण्यम्भर्ग्गो देवस्य धीमहि ।

धियोयोनः प्प्रचोदयत् ।।

ॐ प्रातः सन्ध्यायां ब्रह्म स्वरूपिणे सवित्रे सूर्यनारायणाय नमः ।

इदमर्घ्यं दत्तं न मम ॥

(एवम त्रिवारं अर्घ्यं दद्यात्)

ॐ असावादित्यो ब्रह्म 

॥ सूर्योपस्थानम् ॥

ॐ उद्वयन्तमसस्प्परिस्वः पश्श्यन्तऽ उत्तरम् I देवन्देवत्र सूर्य्य्मगन्न्मज्ज्योतिरुत्तमम् ।उदुत्त्यञ्जातवेदसन्देवं व्वहन्ति केतवः ।

दृशेव्विश्श्वायसूर्य्यम् ।।

ॐ चित्रन्देवानामुदगादनी कं चक्षुर्म्मित्रस्यव्वरुणस्याग्ग्नेः । आप्प्राद्ध्यावापृथिवीऽ अन्तरिक्षꣳ सूर्य्यऽआत्क्मा जगतस्तस्थुषश्च ।।

ॐ तच्चक्षुर्द्देवहितम्पुरस्ताच्छुक्रमुच्चरत् ।

पश्श्येमशरदः शतञ्जीवेमशरदः शतꣳशृणुयामशरदः शतम्प्रब्ब्रवाम शरदः शतमदीनाः स्यामशरदः शतम्भूयश्श्च्चशरदः शतात् ।।

ॐ अस्य श्रीब्रह्मशापविमोचनमन्त्रस्य निग्रहानुग्रहकर्ता

 अथवा ब्रह्मा ऋषिः । कामदुघा गायत्री छन्दः । 

भुक्तिमुक्तिप्रदा ब्रह्मशापविमोचनी गायत्रीशक्तिर्देवता । 

ब्रह्मशापविमोचनार्थे जपे विनियोगः ॥

ॐ गायत्रीं ब्रह्मेत्युपासीत यद्रूपं ब्रह्मविदो विदुः ।

तां पश्यन्ति धीराः सुमनसो वाचमग्रतः ।

ॐ वेदान्तनाथाय विद्महे हिरण्यगर्भाय धीमही तन्नो ब्रह्म प्रचोदयात् ।

ॐ देवि गायत्री त्वं ब्रह्म शापात् विमुक्ता भव ॥


ॐ अस्य श्रीवसिष्ठशापविमोचनमन्त्रस्य निग्रहानुग्रहकर्ता वसिष्ठऋषिः ।

विश्वोद्भवा गायत्री छन्दः । वसिष्ठानुग्रहिता गायत्रीशक्ति देवताः ।

वसिष्ठ शाप विमोचनार्थं जपे विनियोगः ॥

ॐ सोऽहमर्कमयं ज्योतिरात्मज्योतिरहं शिवः । 

आत्मज्योतिरहं शुक्रः सर्वज्योतिरसोऽस्म्यहं ॥ 

(इति युक्त्व योनि मुद्रां प्रदर्श्य गायत्री त्रयं पदित्व )

( योनि मुद्रा दिखाकर ३-तीन बार गायत्री मन्त्र का जाप करे ।) 

ॐ देवी गायत्री त्वं वसिष्ठ शापात् विमुक्ता भव ॥

॥ विनियोगः

ॐ अस्य श्रीविश्वामित्रशापविमोचनमन्त्रस्य नूतनसृष्टिकर्ता विश्वामित्रऋषिः । वाग्दोहा गायत्री छन्दः ।

विश्वामित्रानुगृहिता गायत्री शक्तिः सविता देवता ।विश्वामित्रशापविमोचनार्थे जपे विनियोगः ॥

॥ प्रार्थना ॥

ॐ गायत्रीं भजाम्यग्निमुखीं विश्वगर्भां यदुद्भवाः ।  देवाश्चक्रिरे विश्वसृष्टिं तां कल्याणीमिष्टकरीं प्रपद्ये ॥ 

ॐ देवी गायत्री त्वं विश्वामित्र शापात् विमुक्ता भव ॥यन्मुखान्निःसृतो वेदगर्भः ॥

ॐ गायत्रि त्वं विश्वामित्रशापाद्विमुक्ता भव ॥शापमुक्ता हि गायत्री चतुर्वर्गफलप्रदा । अशापमुक्ता गायत्री चतुर्वर्गफलान्तका ॥

॥ प्रार्थना ॥

ॐ अहो देवि महादेवि सन्ध्ये विद्ये सरस्वती । अजरे अमरे चैव ब्रह्मयोनिर्निमोऽस्तुते ॥ 

ॐ देवी गायत्री त्वं ब्रह्मशापात् विमुक्ता भव । वसिष्ठशापात् विमुक्ता भव । 

विश्वामित्रशापात् विमुक्ता भव । विमुक्ता भव ॥

॥गयात्र्यावाहन विनियोगः॥

ॐ तेजोसीत्यस्य परमेष्ठी प्रजापतिरृषिःआज्यं देवता जगती छन्दःयजुर्गायत्र्यावाहने विनियोगः ।।

॥    ध्यानम्    

ॐतेजोसिशुक्क्रमस्य मृतमसिधामनामासि प्प्रियन्देवानाम नाधृष्ट्टन्देवयजनमसि ॥

॥ अथ गायत्रीध्यानम् ॥

मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै,र्युक्तामिन्दुनिबद्धरत्नमुकुटां

तत्त्वार्थवर्णात्मिकाम् ।गायत्रीं वरदाभयाङ्कुशकशां

शुभ्रं कपालं गुणं,शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥

॥ अथ मुद्रप्रदर्शनम् ॥

ॐ सुमुखं सम्पुटं चैव विततं विस्तृतं तथा  द्विमुखं त्रिमुखं चैव   चतुष्पञ्चमुखं  तथा   ॥ षण्मुखाधोमुखं  चैव   व्यापकाञ्जलिकं    तथा । शकटं   यमपाशं च ग्रथितं चोन्मुखोन्मुखम् I प्रलम्बं मुष्टिकं चैव मत्स्यः कूर्मो वराहकम्। सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा॥   एता मुद्राश्चतुर्विंशज्जपादौ परिकीर्तिता: ।

॥ पश्चाद् १०८ वारं गायत्रीमन्त्रं जपेत् ॥

ॐ सुरभिर्ज्ञानं वैराग्यं योनिः शङ्खोऽथ पङ्कजम् लिङ्गं निर्वाणेति जपेत् ॥

॥ जपार्णम् ॥

ॐ अनेन प्रातःसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन गायत्री देवी प्रीयतां न मम ॥

॥ प्रार्थना ॥

ॐ यदक्षरपदभ्रष्टंमात्राहीनं च यद्भवेत् । तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ उत्तरे शिखरे देविभूम्यां पर्वतमूर्धनि । ब्रह्मणेभ्योऽभ्यनुज्ञाता  गच्छ देवि यथासुखम् ॥

॥ गोत्रप्रवरोच्चारणपूउर्वकमभिवादनम् ॥

ॐ अमुकगोत्रोत्पन्नः अमुकप्रवरान्वितः शुक्लयजुर्वेदान्तर्गतवाजसनेयि माध्यान्दिनीयशाखाध्यायी अमुकशर्माहम् ॥ भो आचार्य ! त्वामभिवादयामि ।भो वैश्वानर ! त्वामभिवादयामि ।भो सूर्यचन्द्रमसौ ! युवामभिवादयामि ।भो मातापितरौ ! युवामभिवादयामि ।भो याज्ञवल्क्य ! त्वामभिवादयामि ।भो ईश्वर ! त्वामभिवादयामि ।

॥ सन्ध्यार्पणम् ॥

ॐ अनेन प्रातः सन्ध्योपासनाख्येन कर्मणा भगवान् ब्रह्मस्वरूपी परमेश्वरः प्रीयतां न मम ॥

(त्रिराचमेत्)

॥ॐ तत्सद् ब्रह्मार्पणमस्तु ॥

॥ हस्तौ बद्धवा ॥

ॐ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।न्यूनं सम्पूर्णतां याति

सद्यो वन्दे तमच्युतम् ।।

ॐ विष्णवे नमः । ॐ विष्णवे नमः । ॐ विष्णवे नमः ।

॥ ॐ तत्सद् ब्रह्मार्पणमस्तु ॥

॥ इति प्रातः सन्ध्याप्रयोगः ॥


॥ अथ शुक्लयजुर्वेदीयमध्याह्नसन्ध्याप्रयोगः ॥

॥ सङ्कल्पः ॥

ॐ अत्राद्य महामाङ्गल्यफलप्रदमासोत्तमेमासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं रुद्रावाप्तये मध्याह्नसन्ध्योपासनमहं करिष्ये ॥

॥ सावित्र्यावाहनम् ॥

ॐ सावित्रीं युवतीं शुक्लांशुक्लवस्त्रां त्रिलोचनाम् । त्रिशूलिनीं वृषारूढां

रुद्ररूपिणीसंस्थिताम् । रुद्राणीं रुद्रदैवत्यां रुद्रलोकानिवासिनीम् ।

आवहयाम्यहं देवीमायान्तीं रुद्रमण्डलात् ॥ आगच्छ वरदे देवि

त्र्यक्षरे रुद्रवादिनि । सावित्रि छन्दसां मातर्रुद्रयोनि नमोऽस्तुते ॥

॥ अम्बुप्राशनम्  विनियोगः ॥

ॐ आपः पुनन्त्विति मन्त्रस्य नारायण ऋषिः आपो देअवता गायात्री छन्दः अम्बुप्राशने विनियोगः ॥

ॐ आपः पुनन्तु पृथिविं पृथ्वि पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् ।यदुच्छिष्टमभोज्यं च यद्वा दुश्चरितं मम । सर्वं पुनन्तु मामापो€सतां प्रतिग्रहꣳस्वाहा ।।

॥ अर्घ्यम् ॥

( गायत्री मन्त्र एक वार अर्घ दे )

ॐ आकृष्ण्णेनरजसाव्वर्त्तमानो निवेशयन्नमृतम्मर्त्यञ्च । हिरण्ण्ययेन सवितारथेनादेवोयाति भुवनानिपश्श्यन् ।।

ॐ मध्याह्नसन्ध्यायां रुद्र स्वरूपिणे सवित्रे सूर्यनारायणाय नमः ।

इदमर्घ्यं दत्तं न मम ॥

ॐ असावादित्यो ब्रह्म ॥

॥ जपार्णम् ॥

ॐ अनेन मध्याह्नसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन गायत्री देवी प्रीयतां न मम ॥

॥ सन्ध्यार्पणम् ॥

ॐ अनेन मध्याह्नसन्ध्योपासनाख्येन कर्मणा भगवान् रुद्रस्वरूपी परमेश्वरः प्रीयतां न मम ॥

ॐ तत्सद् ब्रह्मार्पणमस्तु ॥

 ( त्रिराचमेत् )

॥ इति मध्याह्नसन्ध्याप्रयोगः ॥


॥ अथ शुक्लयजुर्वेदीयसायंसन्ध्याप्रयोगः ॥

॥ सङ्कल्पः ॥

ॐ अत्राद्य महामाङ्गल्यफलप्रदमासोत्तमेमासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे ममोपात्तदुरितक्षयर्थं विष्णुवाप्तये सायंसन्ध्योपासनमहं करिष्ये ॥

॥ सरस्वत्यावाहनम् ॥

ॐ वृद्धां सरस्वतीं कृष्णां पीतवस्त्रां चतुर्भुजाम् । शङ्खचक्रगदापद्महस्तां गरुडवाहिनीम् । वैष्ण्वीं विष्णुदैवत्यां विष्णुलोकनिवासिनीम् ।आवाहयाम्यहं देवीमायान्तीं विष्णुमण्डलात् ॥ आग्च्छ वरदे देवित्र्यक्षरे विष्णुवादिनि । सरस्वति छन्दसा मातर्विष्णुयोनि नमोऽस्तुते ॥

॥ अम्बुप्राशनम् विनियोगः ॥

ॐ अग्निश्चमेत्यस्य नारायणः ऋषिः अग्निर्देवता अनुष्टुब्छ्न्दः अम्बुप्राशने विनियोगः ॥

ॐ अग्निश्चमा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यदह्ना पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना अहस्तदवलुम्पतु यत्किञ्चिद्दुरितं मयि इदमहं माममृतयोनौ सत्ये ज्योतिषि जुहोमि स्वाहा ॥

॥ अर्घ्यम् ॥

( गायत्री मन्त्र एक वार अर्घ दे )

ॐ सायंसन्ध्यायां विष्णु स्वरूपिणे सवित्रे सूर्यनारायणाय नमः ।

इदमर्घ्यं दत्तं न मम ॥

॥ जपार्णम् ॥

ॐ अनेन सायंसन्ध्याङ्गभुतेन यथाशक्ति गायत्रीमन्त्रजपेन गायत्री देवी प्रीयतां न मम ॥

॥ सन्ध्यार्पणम् ॥

ॐ अनेन सायंसन्ध्योपासनाख्येन कर्मणा भगवान् विष्णुस्वरूपी परमेश्वरः प्रीयतां न मम ॥

ॐ तत्सद् ब्रह्मार्पणमस्तु ॥

( त्रिराचमेत् )


॥ इति सायंसन्ध्याप्रयोगः ॥

आपका मंगल हो, प्रभु कल्याण करे

एक टिप्पणी भेजें (0)
और नया पुराने